महच्चरितमाला
महच्चरितमाला १ महर्षिः पाणिनिः येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।। विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च। शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति । तथा चोक्...